(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.76. अध्यायः 076
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन भीमंप्रति स्वस्य तन्महिमाभिज्ञत्वमभिधाय तत्प्रशंसनपूर्वकं स्वोक्तेः तेजस्सन्दीपनार्थत्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

श्रीभगवानुवाच। 5-76-0x(3627)(34535)
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम् ।
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥ 5-76-1(34536)
वेदाहं तव माहात्म्यसुत ते वेद यद्बलम्।
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥ 5-76-2(34537)
यथा चात्मनि कल्याणं संभावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ॥ 5-76-3(34538)
यादृशे च कुले जन्म सर्वराजाभिपूजिते ।
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥ 5-76-4(34539)
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर ।
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ॥ 5-76-5(34540)
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु।
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ॥ 5-76-6(34541)
अन्यथा परिदृष्टानि कविभिर्दोवदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ 5-76-7(34542)
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म दैनेनापि विरुद्ध्यते ॥ 5-76-8(34543)
दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥ 5-76-9(34544)
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् ।
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ॥ 5-76-10(34545)
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः।
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ॥ 5-76-11(34546)
य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते ।
नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्रुते ॥ 5-76-12(34547)
तत्रेयमनुमात्रा मे भीमसेन विवक्षिता।
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ॥ 5-76-13(34548)
नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये ।
विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते ॥ 5-76-14(34549)
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव।
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥ 5-76-15(34550)
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम।
भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम् ॥ 5-76-16(34551)
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः ।
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ॥ 5-76-17(34552)
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः।
धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः ॥ 5-76-18(34553)
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति।
धनञ्जयस्यैष कामो न हि युद्धं न कामये ॥ 5-76-19(34554)
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव।
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ॥ ॥ 5-76-20(34555)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्सप्ततितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-76-1 भावमिति । विवक्षया त्वया स्वरूपं वक्तव्यमितीच्छया। प्रागेव तस्य ज्ञातत्वात् ॥ 1 ॥ 5-76-5 देवमानुषयोर्धर्मस्य पर्यायमिति संबन्धः ॥ 5-76-7 परिदृष्टानि कर्तव्यत्वेन निश्चितानि कार्याणि ॥ 5-76-10 दिष्टः फलभोगाय आज्ञप्तः भावः सत्ता यस्य तत् दिष्टभावं प्रारब्धकर्म। पञ्चम्यर्थे षष्ठी । प्रारब्धादन्यदित्यर्थः । पुरुषस्य पुरुषेण संचितं यत्स्वयंकृतं कर्म तस्मादनुपरोधो जन्मान्तरे निरोधो नास्ति। तत्र ज्ञानेन प्रायश्चित्तेन वा संचितपापानां नाशे लक्षणं ज्ञापकं श्रुतिस्मृतिजातं विद्यते ॥ 5-76-11 कर्मणोऽन्यत्र पौरुषंविना अन्यत एकस्माद्दैवादेव वृत्तिर्जीविका नास्ति । एवं बुद्धिः ईदृक्ज्ञानवान्सन् प्रवर्तेत पुरुषकारं कुर्यात्। तथा सति उभयान्वये दैवपौरुषयोः संबन्धे फलं भवति नान्यतरत इत्यर्थः ॥ 5-76-13 अनुमात्राऽवधारणं निश्चय इत्यर्थः ॥ 5-76-14 प्रहीणरश्मिः निष्प्रभः। भावः प्रारब्धं कर्म। अर्च्छेत् प्राप्नुयात् ॥ 5-76-17 ते कुरव इति संबन्धः ॥ 5-76- 5-76- 5-76-


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.